द्बितीय
सर्गः
आशासु
शरीभहदङ्गबल्लीभासैव
दासीकृतदुग्धसिऩ्धुम् ।
मन्दस्मितैर्निन्दितशारदेन्दुं
वन्देऽरबिन्दासुन्दरि
त्वाम् ।।
अथ
प्रजानामधिपः जायाप्रतिग्राहितगन्धमाल्यम्
।
वनाय
पीतप्रतिबद्धवत्सां यशोधनो
धेनुमृषेर्मुमोच ।। १ ।।
अथ निशानयनानन्तरं
यशोधनः प्रजानामधिपः प्रजेश्वरः
प्रभाते प्रातकाले जायया
सुदक्षिणया प्रतिग्राहयित्र्या
प्रतिग्राहिते स्वीकारीते
गन्धमाल्ये यया सा
जायप्रतिग्राहितगन्धमाल्या
। तां तथोक्ताम् । पीतं
पानमस्यास्तीति पीतः ।
पीतवानित्यर्थः । ‘
अर्शआदिभ्योऽच्
‘ इत्यच्प्रत्ययः
। ‘पीता गीवो भुक्ता ब्राह्मणाः
‘ इति महाखभाष्ये दर्शनात्
। पीतः प्रतिबद्धो वत्सो
यस्यास्तामृषेर्धेनुं वनाय
वनं गन्तुम् । ‘क्रियार्थोपपद-‘इत्यादिना
चतुर्थी । मुमोच मुक्तवान्
। जायापदसामर्थ्यात्सुदक्षिणायाः
पुत्रजननयोग्यत्वमनुसंधेयम्
। तथाहि श्रुतिः-
पतिर्जायां
प्रविशति गर्भो भूत्वेह मातरम्
। तस्यां पुनर्नवो भूत्वा
दशमे मासि जायते । तज्जाया
जाया भवति यदस्यां जायते पुनः
।।‘ इति । यशोधन इत्यनेन
पुत्रवक्ताकीर्तिलोभाद्राजानर्हे
गोरक्षणे प्रवृत्त इति गम्यते
। ‘अस्मिन्सर्गे
वृत्तमुपजातिः-अनन्तरोदीरितलक्ष्मभाजौ
पादौ यदीयावुपजातयस्ताः‘
इति ।।
तस्याः
खुरन्यासपवित्रपांसुलानां
धुरि कीर्तनीया ।
मार्गे
मनुष्येश्वरधर्मपत्नी
श्रुतेरिवार्थं स्मृतिरन्वागच्छत्
।। २ ।।
पांसवो दोषा
आसां सन्तीति पांसुलाः
स्वैरिण्यः । ‘स्वैरिणी
पांसुला‘ इत्यमरः । ‘सिध्मादिभ्यश्च‘
इति लच्प्रत्यः । अपांसुलानां
पतिव्रतानां धुर्यग्रे
कीर्तनीया परिगणनीया
मनुष्येश्वरधर्मपत्नी ।
खुरन्यासैः पवित्राः पांसवो
यस्य तम् । ‘रेणुर्दूयोः
स्त्रियां धूलिः पांसुर्ना
न द्वयो रजः‘ इत्यमरः । तस्यां
धेनोर्मार्गाम् । स्मृतिर्मन्वादिवाक्यं
श्रुतेर्वेदवाक्यस्यार्थमभिधेयमिव
। अन्वगच्छदनुसृतवती च । यथा
स्मृतिः श्रुतिक्षुण्णमेवार्थमनुसरति
तथा सापि गोखुरक्षुण्णमेव
मार्गमनुससारेत्यर्थः ।
धर्मपत्नीत्यत्राश्वघासादिंवत्तादर्थ्ये
षष्ठीसमासः प्रक्रतिविकाराभावात्
। पांसुलपथप्रवृत्तावप्यपांसुलानामिति
वरोधार्लकारो ध्वन्यते ।।
निवर्त्य
राजा दयितां दयालुस्तां
सौरभेर्यी सुरभिर्यशोभिः ।
ग्योधरीभूतचतुःसमुद्रां
जुगोप गोरूपधरामिवोर्वीम्
।। ३ ।।
दयालुः कारुणिकः
। ‘ स्याद्दयालुः कारुणिकः‘
इत्यमरः । ‘ स्पृहिगृहि-
‘ इत्यादिनालुच्प्रत्ययः
। यशोभिः सुरर्भिरर्मनोज्ञः
। ‘सुरभिः स्यान्मनोज्ञेऽपि‘
इति विश्वः । राजा तां दयितां
निवर्त्य सौरभेयीं कामधेनुसुतां
नन्दिनीम् । धरन्तीति धराः
। पचाद्दच् । पयसां धराः पयोधरा-
स्तनाः
। ‘स्त्रीस्तनाब्दौ पयोधरौ
‘ इत्यमरः । अपयोधराः पयोधराः
संपद्दमानाः पयोधरीभूताश्चः
। अभूततद्भावे च्विः ।
‘कुगतिप्रादयः‘ इति समासः
। पयोधरीभूताश्चत्वारः समुद्रा
यस्यास्ताम् । ‘अनेकमन्यपदार्थे‘
इत्यनेकपदार्थग्रहणसामर्थ्यास्त्रिपदो
बहुवीहिः । गोरूपधरामुर्वीमिव
। जुगोप ररक्ष । भूरक्षणप्रयत्नेनेव
ररक्षेति भावः । धेनुपक्षे
पयसा दुग्धेनाधरीभूताश्चत्वारः
समुद्रा यस्या सा तथोक्ताम्
। दुग्धतिरस्कृतसागरामित्यर्थः
।।
व्रताय
तेनानुचरेण धेनोर्न्यषेधि
शोषोऽप्यनुयायिवैर्गः ।
न चान्यतस्तस्य
शरीररक्षा स्ववीर्यगुप्ता
हि मनोः प्रसूतिः ।। ४ ।।
व्रतायधेनोरनुचरेणनतुजीवनायेतिभावः।
तेन दिलीपेनशेषोऽवशिष्टोऽप्यनुयायिवर्गोऽनुचरवर्गो
न्यषेधि
निवर्तितः । शेषत्वं
सुदक्षिणापेक्षया । कथं
तर्ह्यात्मरक्षणमत आह-
न
चेति । तस्य दिलीपस्य शरीररक्षा
चान्यतः पुरुषान्तरान्न ।
कुतः । हि यस्मात्कारणान्मनोः
। प्रसूयत इति प्रसूयतिः
खवीर्यगुप्ता
खवीर्येणैव
रक्षिता । नहि स्वनिर्वाहकस्य
परापेक्षेति भावः ।।
आस्वादवद्भिः
कवलैस्तृणानां कण्डूयनैर्दशनिवारणैश्च
।
अव्याहतैः
स्वैगतैः स तस्याः सम्राट्
समाराधनतत्परोऽभूत् ।।५ ।।
सम्राण्मण्डलेश्वरः
। ‘येनेष्टं राजसूयेन
मण्डस्येश्वरश्च यः । शान्ति
यश्चाज्ञया राज्ञः स सम्राट्‘
इत्यमरः । स राजा । आखादवदभी
रसवद्भिः । खादयुक्तैरित्यर्थः
। तृणानां कवलैर्ग्रासैः
‘ग्रासस्तु कवलार्थकः‘
इत्यमरः । कण्डुयनैः खर्जनैः
। दंशानां वनमक्षिकाणां
निवारणैः । ‘दंशस्तु वनमक्षिका‘
इत्यमरः । अव्याहतैरप्रतिहतैः
खैरगतैः स्वच्छन्दगमनैश्च
। तस्या धेन्वाः समाराधनतत्परः
शुश्रूषासक्तोऽभूत् । तदेव
परं प्रधानं यस्येति तत्परः
। ‘तत्परे प्रसितासक्तौ‘
इत्यमरः ।।
स्थितः
स्थितामुच्चलितः प्रयातां
निषेदुषीमासनबन्धधीरः ।
जलाभिलाषी
जलमाददानां छायेव तां
भूपतिरन्वगच्छत् ।।६।।
भूपतिस्तां
गां स्थितां सती स्थितः सन्
। स्थितिरूर्ध्वावस्थानम्
। प्रयातां प्रस्थितामु-
च्चलितः
प्रस्थितः । निषेदषीं निषण्णाम्
। मममउगितश्च‘ इति ङीप् ।
आसनवन्ध उपवेशने धीरः । स्थितः
। उपविष्टः सन्नित्यर्थः ।
जलमाददानां पिबन्ती जलाभिलाषी
। पिबन्नित्यर्थः । इत्थं
छायेवान्व-
गच्छदनुसृतवान्
।।
स
न्यस्तचिह्नामपि राजलक्ष्मीं
तेजोविशेषानुमितां दधानः ।
आसीदनाविष्कृतदानराजिरन्तर्मदावस्त
इव द्विपेन्द्रः ।। ७ ।।
न्यस्तानि
परिहृतानि चिह्नानि छत्रचामरादीनि
यस्यास्तां तथाभूतामपि
तेजोविशेषेण-
प्रभावातिशयेनानुमिताम्
। सर्वथा राजैवायं भवेदित्यूहितां
राजलक्ष्मीं दधानः स राजा ।
अनाविष्कृ-
दानराजिर्बहिरप्रकटितमदरेखः
। अन्तर्गता
मदावस्था यस्य सोऽन्तर्मदावस्थः
। तथाभूतो द्विपेन्द्र इव ।
आसीत् ।।
लताप्रतानोन्द्रथितैः
स केशैरधिज्यधन्वा विचचार
दावम् ।
रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव
दष्टसत्त्वान् ।। ८ ।।
लतानां
वल्लीनां प्रतानैः
कुटिलतन्तुभिरुद्भथिता
उन्नमय्य ग्रथिता ये
केशास्तैरुपलक्षितः ।
‘इत्थंभूतलक्षणे‘
इति तृतीया । स राजा ।
अधिज्यमारोपितमौर्वीकं
धनुर्यस्य सोऽधिज्यधन्वा
सन् । ‘धनुषश्च‘ इत्यनङादेशः
। मुनिहोमदेनोः रक्षापदेशाद्रक्षणव्या
जात् । वन्यान्वने
भवान्दुष्टसत्वान्दुष्ट-
जन्तून्
। ‘ द्रव्यासुव्यवसायेषु
सत्तवमस्त्री तु जन्तुषु‘
इत्यमरः । विनेष्यञ्शिक्षयिष्यन्निव
। ‘दावं वनम् । वने च दवो दाव
इहेष्यते‘ इति यादवः । विचचार
। वने चचारेत्यर्थः ।
‘देशकालाध्वगन्तव्याः
कर्मसंज्ञा ह्यकर्मणाम्‘
इति दावस्य कर्मत्वम् ।।
‘विसृष्ट-‘
इत्यादिभिः
षड्भिः श्लोकैस्तस्य महामहिमतया
द्रुमादयोऽपि राजोपचारं
चकुरित्याह-
विसृष्टपार्श्वानुचरस्य
तस्य पार्श्वद्रुमाः पाशभृता
समस्य ।
उदीरयामासुरिवोन्मदानामालोकशब्दं
वयसां विरावैः ।। ९ ।।
विसृष्टाः
पार्श्वानुचराः पार्श्ववर्तिनो
जना येन तस्य । पाशभृता वरुणेन
समस्य तुल्यस्य । ‘प्रचेता
वरुणः पाशी‘ इत्यमरः । अनुभावोऽनेन
सूचितः । तस्य राज्ञः
पार्श्वयोर्द्रुमाः ।
उन्मदानामु-
त्कटमदानां
वयसां खगानाम् । ‘खगबाल्यादिनोर्वयः‘
इत्यमरः । विरावैः शब्दं
वाचकमालोकयेति शब्दम्।
जयशब्दमित्यर्थः । ‘आलोको
जयशब्दः स्यात्‘ इति विश्वः
। उदीरयामासुरिवावगन्निव ।
इत्युत्प्रेक्षते।।
मरुत्प्रयुक्ताश्च
मरुत्सखाभं तमर्च्यमारादभिवर्तमानम्
।
अवाकिरन्बाललताः
प्रसूनैराचारलाजैरिव पौरकन्याः
।। १० ।।
मरुत्प्रयुक्ता
वायुना प्रेरिता बाललता
आरात्समीपेऽभिवर्तमानम् ।
‘आराद्दूरसमीपयोः‘ इत्यमरः
। मरुतो वायोः सखा मरुत्सखोऽग्निः
। स इवाभातीति मरुत्सखाभम्
। ‘आतश्चोपसर्गे‘ इति कप्रत्ययः
। अर्च्य पूज्यं तं दिलीपं
प्रसूनैः पुष्पैः । पौरकन्याः
पौराश्च ताः कन्या आचारार्थै
र्लाजै-
राचारलाजैरिव
। अवाकिरन् । तस्योपरि
निक्षिप्तवत्य इत्यर्थः ।
सखा हि सखायमागतमुपचरतीति
भावः ।।
धनुर्भतोऽप्यस्य
दयार्द्रभावमाख्यातमन्तः
करणैर्विशङ्कैः ।
विलोकयन्त्यो
वपुरापुरक्षणां प्रकामविस्तारफलं
हरिण्यः ।। ११ ।।
धनुर्भृतोऽप्यस्य
राज्ञः । एतेन भयसंभावना
दर्शिता । तथापि विशङ्कैर्निर्भीकैरन्तः
करणैः कर्तोभिः । दयया
कृपारसेनार्द्रो भावोऽभिप्रायो
यस्य तद्दयार्द्रभावं तदाख्याकम्
। दयार्द्रभावमेतदित्याख्यातमित्यर्थः
। ‘भावः सत्ताखभावाभिप्रायचेष्टाक्मजन्मसु‘
इत्यमरः । तथाविधं वपुर्विलोकयन्त्यो
हरिण्योऽक्ष्णां
प्रकामविस्तारस्यात्यन्तविशालतायाः
फलमापुः । ‘विमलं कलुषीभवच्च
चेतः कथयत्येव हितैषिणं रिपुं
च ‘ इति न्यायेन
स्वान्तःकरणवृत्तिप्रामाण्यादेव
विश्रब्धं ददृरशुरि-
त्यर्थः
।।
स
कीचकैर्मारुतपूर्णरन्धैः
कुजद्भिरापादितवंशकृत्यम्
।
शुश्राव
कुञ्जेषु यशः स्वमुच्चैरुद्भीयमानं
वनतेवताभिः ।। १२ ।।
स दिलीपो
मारुतपूर्णरन्ध्रैः । अतएव
कुजद्भिः स्वनद्भिऋः ।
कीचकैर्वेमणुविशेषैः । ‘वेणवः
कीचकास्ते स्युर्ये
स्वनन्त्यनिलोद्धताः‘ इत्यमरः
। वंशः सुषिरवाद्यविशेषः ।
‘वंशादिकं तु सुषिरम्‘ इत्यमरः
। आपादितं संपादितं वंशस्य
कृत्यं कार्य यस्मिन्कर्मणि
तत्तथा । कुञ्जेषु लतागृहेषु
। ‘निकुञ्ज-कुञ्जौ
वा लतादिपिहितोदरे ‘ इत्यमरः
। वनदेवताभिरुद्रीयमानमुच्चैर्गीयमानं
खं यशः शुश्राव शुतवान् ।।
पृक्तस्तुषारैर्गिरिनर्झराणामनोकहाकम्पितपुष्पगन्धी
।
तमातपक्लान्तमनातपत्रमाचारपूतं
पवनः सिषेवे ।। १३ ।।
गिरिषु निर्झराणां
वारिप्रवाहाणाम् । ‘वारिप्रवाहो
निर्झरो झरः‘ इत्यमरः । तुषारैः
सीकरैः ‘तुषारौ हिमसीकरौ ‘
इति शाश्वतः । पृक्तः
संपृक्तोऽनोकहानां
वृक्षाणामाकम्पितानीषत्कम्पितानि
पुष्पाणि तेषां यो गन्धः
सोऽस्यास्तीत्याकम्पितपुष्पगन्धी
। ईषत्कम्पितपुष्पगन्धवान्
। एवं शीतो मन्दः सुरभिः पवनो
वायुरनातपत्रं व्रतार्थं
परिहृतच्छत्रम् । अतएवातपक्लान्तमाचारेण
पूतं शुद्धं तं नृपं सिषे-
वे ।
आचारपूतत्वात्स राजा
जगत्पावनस्यापि सेव्य आसीदिति
भावः ।।
शशाम
वृष्ट्यापि विना दवाग्निरासीद्विशेषा
फलपुष्पवृद्धिः ।
ऊनं न
सत्त्वेष्वधिको बवाधे तस्मिन्वनं
गोप्तरि गाहमाने ।। १४ ।।
गोप्तरि
तस्मिन्राज्ञि वनं गाहमाने
प्रविशति सति वृष्ट्या विनापि
। दवाग्निर्वनाग्निः । ‘दवदावौ
वनानले ‘ इति हैमः । शशाम ।
फलानां पुष्पाणां च वृद्धिः
। विशेष्यत इति विशेषा ।
अतिशयितासीत् । कर्मार्थे
घञ्प्रत्ययः । सत्त्वेषु
जन्तुषु मध्ये । ‘यतश्च
निर्धारणम् ‘ इति सप्तमी ।
अधिकः प्रवलो व्याघ्रादिरूनं
दुर्बलं हरिणादिकं न बबाधे
।।
संतारपूतानि
दिगन्तराणि कृक्वा गिनान्ते
निलयाय गन्तुम् ।
प्रचक्रमे
पल्लवरागताम्रा प्रभा पतङ्गस्य
मुनेश्च धेनुः ।। १५ ।।
पल्लवस्य रागो
वर्णः पल्लवरागः । ‘रागोऽनुरक्तौ
मात्सर्ये क्लेशादौ लोहितादिषु
‘ इति शाश्व-
तः । स एव
ताम्रा पल्लवरागताम्रा
पतङ्गस्य सूर्यस्य प्रभा
कान्तिः । ‘पतङ्गः पक्षिसूर्ययोः
‘ इति शाश्व-
तः ।
मनेर्धेनुश्च । दिगन्तराणि
दिशामवकाशान्
‘अन्तरमवकाशावृधिपरिधानान्तर्धिभेदतादर्थ्ये
‘ इत्यमरः । संचारेण पूतानि
शुद्धानि कृत्वा दिनान्ते
सायंकाले निलयायास्तमयाय
धेनुपक्ष आलयाय चागन्तुं
प्रचक्रमे ।।
तां
देवतापित्रतिथिक्रियार्थामन्वग्ययौ
मध्यमलोकपालः ।
बभौ च सा तेन
सतां मतेन श्रद्धेव
साक्षाद्विधिनोपपन्ना ।।
१६ ।।
मध्यमलोकपालो
भूपालः । देवतापित्रतिथीनां
क्रिया यागश्राद्धदानानि
ता एवार्थः प्रयोजनं यस्यास्तां
धेनुमन्वगनुपदं ययौ ।
‘अन्वगन्वक्षमनुगेऽनुपदं
क्लीबमव्ययम् ‘ इत्यमरः ।
सतां मतेन सद्भिर्मान्येन
। ‘मतिबुद्धि-‘
इत्यादिना
वर्तमाने क्तः । ‘क्तस्य च
वर्तमाने‘ इति षष्ठी । तेन
राज्ञोपपन्ना युक्ता सा धेनुः
। सतां मतेन विधिनानुष्ठानेनोपपन्ना
युक्ता साक्षात्प्रत्यक्षा
श्रद्धास्तिक्यबुद्धिरिव
। बभौ च ।।
स
पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि
।
ययौ
मृगाध्यासितशाद्वलानि
श्यामायमानानि वनानि पश्यन्
।। १७ ।।
स राजा ।
पल्वलेभ्योऽल्पजलाशयेभ्य
उत्तीर्णानि निर्गतानि
वराहाणां यूथानि कुलानि येषु
तानि । बर्हाण्येषां सन्तीति
बर्हिणा मयूराः । ‘मयूरो
वर्हिणो बर्ही ‘ इत्यमरः ।
‘फलबर्हाभ्यामिनच्प्रत्ययो
वक्तवयः‘ । आवासवृक्षाणामुन्मुखा
बर्हिणा येषु तानि श्यामायमानानि
वराहबर्हिणादिमलिनिम्रा
अश्या-
मानि
श्यामानि भवन्तीति श्यामायमानानि
। ‘लोहितादिडाज्भ्य-
क्यष्‘
इति क्यष्प्रत्ययः । ‘वा
क्यषः‘ इत्यात्मनेपदे शानच्
। मृगैरघ्यासिता अधिष्ठिताः
शाद्वला येषु तानि । शादाः
शष्पाण्येषु देशेषु सन्तीति
शाद्वलाः शष्पश्यामदेशाः ।
‘शाद्वलः शादहरिते‘ इत्यमरः
। ‘शादः कर्दमशष्पयोः‘ इति
विश्वः। ‘नडशादाद्ड्वलच्‘
इति ड्वलच्प्रत्ययः । वनानि
पश्यन्ययौ ।।
आपीनभारोद्वहनप्रयत्नाद्गृष्टिर्गुरुत्वाद्वपुषो
नरेन्द्रः ।
उभावलंचक्रतुरञ्चिताभ्यां
तपोवनावृत्तिपथं गताभ्याम्
।। १८ ।।
गृष्टिः
सकृत्प्रसूता गौः । ‘सकृत्प्रसूता
गौर्गृष्टिः‘ इति हलायुधः
। नरेन्द्रश्च । उभौ यथाक्रम-
म् ।
आपीनमूधः । ‘ऊधस्तु क्लीबमापीनम्
‘ इत्यमरः । आपीनस्य भारोद्वहने
प्रयत्नात्प्रयासात् । वपुषो
गुरुत्वादाधिक्याच्च ।
अञ्चिताभ्यां चारुभ्यां
गताभ्यां गमनाभ्यां तपोवनादावृत्तेः
पन्था अवृत्ति-
पथस्तं
तपोवनावृत्तिपतम् । ‘ॠक्पूः-‘
इत्यादिना
समासान्तोऽप्रत्ययः ।
अलंचक्रतुर्भूषितवन्तौ ।।
वसिष्ठधेनोरनुयायिनं
तमावर्तमानं वनिता वनान्तात्
।
पपौ
निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव
लोचनाभ्याम् ।। १९ ।।
वसिष्ठधेनोरनुयायिनमनुचरं
वनान्तादावर्तमानं प्रत्यागतं
तं दिलीपं वनिता सुदक्षिणा
। निर्मषेष्वलसा मन्दा पक्ष्मणां
पङ्क्तिर्यस्याः सा । निर्निमेषा
सतीत्यर्थः । लोचनाभ्यां
करणाभ्याम् । उपोषिताभ्यामिव
। उपवासो भोजननिवृत्तिः ।
तद्वद्भ्यामिव वसतेः कर्तरि
क्तः । पपौ । यथोपो-
षितोऽतितृष्णया
जलमधिकं पिबति तद्वदतितृष्णयाधिकं
व्यलोकयदित्यर्थः ।।
पुरस्कृता
वर्त्मनि पार्थिवेन प्रत्युद्भता
पार्थिवधर्मपत्न्या ।
तदन्तरे
सा विरराज धेनुर्दिनक्षपामध्यगतेव
संध्या ।। २० ।।
वर्त्मनि
पार्थिवेन पृथिव्या ईश्वरेण
। ‘तस्येश्वरः‘ इत्यञ्प्रत्ययः
। पुरस्कृताग्रतः कृता ।
धर्मस्य पत्नी धर्मस्य पत्नी
धर्मपत्नी । धर्मार्थपत्नीत्यर्थः
। अश्वाघासादिवत्तादर्थ्ये
षष्ठीसमासः । पार्थिवस्य
धर्मपत्न्या प्रत्युद्गता
सा धेनुस्तदन्तरे तयोर्दपत्योर्मध्ये
। दिनक्षपयोर्दिनरात्र्योर्मध्यागता
संध्येव विरराज ।।
प्रदक्षिणीकृत्य
पयस्विनीं तां सुदक्षिणा
साक्षतपात्रहस्ता ।
प्रणम्य
चानर्च वशालमस्याः शृङ्गान्तरं
द्वारमिवार्थसिद्धेः ।। २१
।।
अक्षतानां
पात्रेण सह वर्तेते इति
साक्षतपात्रौ हस्तौ यस्याः
सा सुदक्षिणा पयस्विर्नी
प्रशस्तक्षीरां तां धेनुं
प्रदक्षिणीकृत्य प्रणम्य च
तस्या धेन्वा विशालं शृङ्गान्तरं
शृङ्गमध्यम् । अर्थसिद्धेः
कार्यसिद्धेर्द्वारं
प्रवेशमार्गमिव । आनर्चार्चयामास
। अर्चतेर्भौवादिकाल्लिट्
।
वत्सोत्सुकापि
स्तिमिता सपर्या प्रत्यग्रहीत्सेति
ननन्दतुस्तौ ।
भक्तयोपपन्नेषु
हि तद्विधानां प्रसादचिह्नानि
पुरःफलानि ।। २२ ।।
सा धेनुर्वत्सोत्सुकापि
वत्स उत्कण्ठितापि स्तिमिता
निश्चला सती सपर्या पूजां
प्रत्यग्रहीदिति हेतोस्तौ
दंपती ननन्दतुः ।
पूजास्वीकारस्यानन्दहेतुत्वमाह-भक्त्येति
। पूज्येष्वनुरागो भक्तिः
। तयोपपन्नेषु युक्तेषु विषये
तद्विदानाम् । लिङ्गानि
पूजास्वीकारादीनि पुरःफलानि
पुरोगतानि प्रत्यासन्नानि
फलानि येषां तानि हि ।
अविलम्बितफलसूचकलिङ्गदर्शनादानन्दो
युज्यत इत्यर्थः ।।
गुरोः सदारस्य
निपीड्य पादौ समाप्य सांधयं
च विर्धि दिलीपः ।
दोहावसाने
पुनरेव दोग्ध्रीं भेजे
भुजोच्छिन्नरिपुर्निषण्णाम्
।। २३ ।।
भजोच्छिन्नरिपुर्दिलीपः
सदारस्य दारैररुन्धत्या सह
वर्तमानस्य गुरोः । उभयोरपीत्यर्थः
। ‘भार्या जायाथ पुं हूम्नि
दाराः‘ इत्यमरः । पादौ
नपीड्याभिवन्द्य । सांध्यं
संध्यायां विहितं विधिमनु-ष्ठानं
च समाप्य । दोहावसाने निषण्णामासीनां
दोर्ग्ध्री दोहनशीलाम् ।
‘तृन्‘ इति तृन्प्रत्ययः ।
धेनुमेव पुनर्मेजे सेवितवान्
। दोग्ध्रामिति निरुपपदप्रयोगात्कामदेनुत्वं
गम्यते ।।
तामन्तिकन्यस्तबलिप्रदीपामन्वास्य
गोप्ता गृहिणीसहायः ।
क्रमेण
सुप्तामनु संविवेश सुप्तोत्थितां
प्रातरनूदतिष्ठत् ।। २४ ।।
गोप्ता रक्षको
गृहिणीसहायः पत्नीद्वितीयः
सन् । उंभावपीत्यर्थः । अन्तिके
न्यस्ता बलयः प्रदीपाश्च
यस्यास्तां तथोक्तां तां
पूर्वोक्तां निषण्णां
धेनुमन्वास्यानूपविश्य
क्रमेण सुप्तामन्वनन्तरं
संविवेश सुष्वाप । प्रातः
सुप्तोत्थितामनूदतिष्ठदुत्थितवान्
। अत्रानुशव्देन धेनुराजव्यापारयोः
पौर्वापर्यमुच्यते । क्रमशब्देन
धेनुव्यापाराणमेव इत्यपौनरुक्त्यम्
। ‘कर्मप्रवचनीययुक्ते-‘
इति
द्वितीया ।।
इत्थं व्रतं
धारयतः प्रजार्थं समं महिष्या
महनीयकीर्तेः ।
सप्त
व्यतीयुस्त्रिगुणानि तस्य
दिनानि दीनोद्धरणोचितस्य
।। २५ ।।
इत्थमनेन
प्रकारेण प्रजार्थं संतानाय
महिष्या सममभिषिक्तपत्न्या
सह । ‘कृताभिषेका महिषी‘
इत्यमरः । व्रतं धारयतः ।
महनीया पूज्या कीर्तिर्यस्य
तस्य । दीनानामुद्धरणं
दैन्यविमोचनं तत्रोचितस्य
परिचितस्य तस्य नृपस्य । त्रयो
गुणा आवृत्तयो येषां तानि
त्रिगुमानि त्रिरावृत्तानि
सप्त दिनान्येक विंश-
तिदिनानि
व्यतीयुः ।।
अन्येद्युरात्मानुचरस्य
भावं जिझासमाना मुनिहोमधेनुः
।
गङ्गाप्रपातान्तविरूढशष्पं
गौरीगुरोर्गह्वरमाविवेश ।।
२६ ।।
अन्येद्युरन्यस्मिन्दिने
द्वाविंशे दिने ।‘ सद्यःपरुत्परारि-‘
इत्यदिना
निपातनादव्ययम् ।
‘अद्यात्राह्नायपूर्वेऽह्नीत्यादौ
पूर्वोत्तरापरात् ।
तथाऽधरान्यान्यतरेतरात्पूर्वेद्युरादयः
।।‘ इत्यमरः । मुनि-होमधेनुः
। आत्मानुचरस्य भावमभिप्रायं
दृढभक्तित्वम् । ‘ भावोऽभिप्राय
आशयः ‘ इति यादवः । जि-ज्ञासमाना
ज्ञातुमिच्छन्ती । ‘
ज्ञाश्रुस्मृदृशं सनः‘
इत्यात्मनेपदे शानच् ।
प्रपतत्यस्मिन्निति प्रपातः
पतनप्रदेशः । गङ्गायाः
प्रपातस्तस्यान्ते समीपे
विरूढानि जातानि शष्पाणि
बालतृणानि यस्मिस्तत् ।
‘शष्पं बालतृं घासः‘ इत्यमरः
। गौरीगुरोः पार्वतीपितुर्गह्वरं
गुहामाविवेश ।।
सा दुष्प्रधर्षा
मनसापि हंस्रैरित्यद्रिशोभाप्रहितेक्षणेन
।
अलक्षिताभ्युत्पतनो
नृपेण प्रसह्य सिंहः किल तां
चकर्ष ।। २७ ।।
सा
धेनुर्हिस्रैर्व्याघ्रादिभिर्मनसापि
दुष्प्रधर्षा हेतोरद्रिशोभायां
प्रहितेक्षणेन दत्तदृष्टिना
नृपेणा-
लक्षितमभ्युत्पतनमाभिमुख्येनोत्पतनं
यस्य स सिंहस्तां धेनुं प्रसह्य
हठात् । ‘प्रसह्य तु हठार्थकम्
‘ इत्यमरः । किलेत्यलीके ।।
तदीयमाक्रन्दितमार्तसाधोर्गहानिबद्धप्रतिशब्ददीर्घम्
।
रश्मिष्विवादाय
नगेन्द्रसक्तां निवर्तयामास
नृपस्य दृष्टिम् ।। २८ ।।
गुहानिबद्धेन
प्रतिशब्देन प्रतिध्वनिना
दीर्घम् । तस्या इदं तदीयम्
। आक्रन्दितमार्तघोषणम् ।
आर्तेष्वापन्नेषु साधोर्हितकारिणो
नृपस्य नगेन्द्रसक्तां
दृष्टिम् । रश्मिषु प्रग्रहेषु
। ‘किरणप्रग्रहौ रश्मी‘
इत्यमरः । आतायेव गृहीत्वेव
। निवर्तयामास ।।
स पाटलायां
गवि तस्थिवांसं धनुर्धरः
केसरिणं ददर्श ।
अधित्यकायामिव
धातुमय्यां लोध्रद्रुमं
सानुमतः प्रफुल्लम् ।। २९ ।।
धनुर्धरः स
नृपः पाटलायां रक्तवर्णायां
गवि तस्थिवंसं स्थितम् ।
‘क्कसुश्च ‘ इति क्कसु-
प्रत्ययः
। केसरिणं सिंहम् । सानुमतोऽद्रेः
। धातोर्गैरिकस्य विकारो
धातुमयी । तत्याम धित्यकायामू-
र्ध्वभूमौ
। ‘उपत्यकाद्रेरासन्ना
भूमिरूर्ध्वमधित्यका ‘ इत्यमरः
। ‘उपाधिभ्यां ल्यकन्नासन्नारूढयोः
‘ इति ल्यकन्प्रत्ययः ।
प्रफुल्लं विकसितम् । ‘फुल्ल
विकसने ‘ इति धातोः पचाद्यच्
। ‘प्रफुल्तम् ‘ इति सकारपाठे
‘ञिफला विशरणे ‘ इति धातोः
कर्तरि क्तः । ‘उत्परस्यातः
‘ इत्युकारादेशः । लोदध्रारव्यं
द्रममिव । ददर्श ।।
ततो मृगेन्द्रस्य
मृगेन्द्रगामी वधाय वध्यस्य
शरं शरण्यः ।
जाताभिषङ्गो
नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः
।। ३० ।।
ततः सिंहदर्शनानन्तरं
मृगेन्द्रगामी सिंहगामी ।
शरणं रक्षणम् । ‘शरणं गृहरक्षित्रोः
‘ इत्यमरः। ‘शरणं रक्षणे गृहे
‘ इति यादवः । शरणे साधुः शरण्यः
। ‘तत्र साधुः ‘ इति यत्प्रत्ययः
। प्रसभेन बलात्कारेणोद्धृता
अरयो येन स नृपती राजा जाताभिषङ्गो
जातपराभवः सन् । ‘अभिषङ्गः
पराभवे ‘ इत्यमरः । वध्यस्य
वधार्हस्य । ‘दण्डादिभ्योयः‘
इति यप्रत्ययः । मृगेन्द्रस्य
वधाय निषङ्गात्तूणीरात् ।
‘तूणोपासङ्गतूणीरनिषङ्गा
इषुधिर्द्वयोः ‘ इतयमरः ।
शरमुद्धर्तुमैच्छत् ।।
वामेतरस्तस्य
करः प्रहर्तर्नखप्रभाभूषितकङ्कपत्रे
।
सक्ताङ्गुलिः
सायकपुङ्ख एव चित्रार्पिताम्भ
इवावतस्थे ।। ३१।।
प्रहर्तुस्तस्य
वामेतरो दक्षिणः करः ।
नकप्रभाभिर्भूषितानि वच्छुरितानि
कङ्कस्य पक्षिविशेष-स्य
पत्राणि यस्य तस्मिन् । ‘कङ्कः
पक्षविशेषे स्याद्गुप्ताकारे
युधिष्टिरे ‘ इति विश्वः ।
‘कङ्कस्तु कर्कटः‘ इति यादवः
। सायकस्य पुङ्ख एव कर्तर्याख्ये
मूलप्रदेशे । ‘कर्तरी पुङ्खे‘
इति यादवः । सक्ताङ्खलिः सन्
। चित्रार्पितारम्भश्चित्रलिखितशरोद्धरणोद्योग
इव । अवतस्थे ।।
बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः
।
राजा
स्वतेजोभिरदह्यतान्तर्भोगीव
मन्त्रौषधिरुद्धवीर्यः ।।
३२ ।।
बाह्वोः
प्रतिष्टम्भेन प्रतिबन्धेन
। ‘प्रतिबन्धः प्रतिष्टम्भः‘
इत्यमरः । विवृद्धमन्युः
प्रवृद्धरोषो राजा । मन्त्रौषधिभ्यां
रुद्धवीर्यः प्रतिबद्धशक्तिर्भोगी
सर्प इव । भोगी राजभुजंगयोः
इति शाश्वतः ।
अभ्यर्णमन्तिकम्
। ‘उपकण्ठान्तिकाभ्यर्णभ्यग्रा
अप्यभितोऽव्ययम्‘ इत्यमरः
। आगस्कृतमपराधकारि-
णमस्पृशद्भिः
स्वतेजोभिरन्तरदह्यत ।
‘अधिक्षेपाद्यसहनं तेजः
प्राणात्ययेष्वपि ‘ इति यादवः
।।
तमार्यगृह्यं
निगृहीतधेनुर्मनुष्यवाचा
मनुवंशकेतुम् ।
विस्माययन्विस्मितमात्मवृत्तौ
सिंहोरुसत्त्वं निजगाद सिंहः
।। ३३ ।।
निगृहीता पीडिता
धेनुर्येन स सिंहः । आर्याणां
सतां गृह्यं पक्ष्यम् ।
‘पदास्वैरिव ह्यापक्ष्येषु
च‘ इति क्यप् । मनुवंशस्य
केतुं चिह्नं केतुवद्व्यावक्तकम्
। सिंह इवोरुसत्त्वो महाबलस्तम्
। आत्मनो वृत्तौ बाहुस्तम्भरूपे
व्यापारेऽभूतपूर्वत्वाद्विस्मितम्
। कर्तरि क्तः । सं दिलीपं
मनुष्यवाचा करणेन
पुनर्विस्माययन्विस्मयमाश्चर्यं
प्रापयन्निजगाद । ‘स्मिङ्ईषद्धसने‘
इति धातोर्णिचि वृद्धावायादेशे
शतृप्रत्यये च सति विस्माययन्निति
रूपं सिद्धम् । ‘विस्मापयन्‘
इति पाठे पुगागममात्रं वक्तव्यम्
। तच्च ‘नित्यं स्मयतेः‘ इति
हेतुभयविवक्षायामेवेति
‘भीस्मोर्हेतुभये‘ इत्यात्मनेपदे
विस्मापयमान इति स्यात् ।
तस्मान्मनुष्यवाचा विस्माययन्निति
रूपं सिद्धम् । करणविवक्षायां
न कश्चिद्दोषः ।।
अलं महिपाल
तव श्रमेण प्रयुक्तमप्यस्त्रमितो
वृथा स्यात् ।
न पादपोन्मूलनशक्ति
रंहः शिलोच्चये मूर्च्छति
मारुतस्य ।। ३४ ।।
हे महीपाल तव
श्रमेणालम् । साध्याभावाच्छ्रमो
न कर्तव्य इत्यर्थः । अत्र
गम्यमानसाधनक्रियापेक्षया
श्रमस्य करणत्वात्तृतीया ।
उक्तं च न्यासोद्दयोते-‘न
केवलं श्रूयमाणैव क्रिया
निमित्तं करणभावस्य अपि तर्हि
गम्यमानापि‘ इति । ‘अलं
भूषणपर्याप्तिशक्तिवारणवाचकम्‘
इत्यमरः । इतोऽस्मिन्मयि ।
सार्वविभक्तिकस्तसिः ।
प्रयुक्तमप्यस्त्रं वृथा
स्यात् । तथाहि । पादपोन्मूलने
शक्तिर्यस्य तत्तथोक्तं
मारुतस्य रंहो वेगः शिलोच्चये
पर्वते न मूर्च्छति न प्रसरति
।।
कैलासगौरं
वृषमारुरुक्षोः पातार्पणानुग्रहपूतपृष्ठम्
।
अवेहि मां
किंकरमष्टमूर्तेः कुम्भोदरं
नाम निकुम्भमित्रम् ।। ३५ ।।
कैलास इव गौरः
शुभ्रस्तम् । ‘चामीकरं च
शुभ्रं च गौरमाहुर्मनीषिणः‘
इति शाश्वतः । वृषं
वृषबमारुरुक्षोरारोढुमिच्छोः
। स्वस्योपरि पदं निक्षिप्य
वृषमारोहतीत्यर्थः । अष्टौ
मूर्तयो यस्य स तस्याष्टमूर्तेः
शिवस्य पादार्पणं पादन्यासस्तदेवानुग्रहः
प्रसादस्तेन पूतं पृष्ठं
यस्य तं तथोक्तं निकुम्भमित्रं
कुम्भोदरं नां किंकरं मामवेहि
विद्धि । ‘पृथिवी सलिल तेजो
वायुराकाशमेव च ।सूर्याचन्द्रमसौ
सोमयाजी चेक्यष्टमूर्तयः
।।‘ इति यादवः ।।
अमुं पुरः
पश्यसि देवदारुं पुत्रीकृतोऽसौ
वृषभध्वजेन ।
यो
हेमकुम्भस्तननिःसृतानां
स्कन्तस्य मातुः पयसां रसज्ञः
।। ३६ ।।
पुरोऽग्रतोऽमुं
देवदारुं पश्यसि । इति काकुः
। असौ देवदारुः वृषभो ध्वजे
यस्य स तेन शिवेन पुत्रीकृतः
पुत्रत्वेन स्वीकृतः ।
अभूततद्भावे च्विः । यो देवदारुः
स्कन्धस्य मातुर्गौ हेम्रः
कुम्भ एव स्तनस्तस्मान्निःसृतानां
पयसामम्बूनाम् । रसज्ञः
स्वादज्ञः । स्कन्दपक्षे
हेमकुम्भ इव स्तन इति विग्रहः।
पयसां क्षीराणाम् । ‘पयः
क्षीरं पयोऽम्बु च ‘ इत्यमरः
। स्कन्दसमानप्रेमास्पदमिति
भावः ।।
कण्डूयमानेन
कटं कदाचिद्वन्यद्विपेनोन्मथिता
त्वगस्य ।
अथैनमद्रेस्तनया
शुशोच सेनान्यमालीढमिवासुरास्त्रैः
।। ३७ ।।
कदाचित्कटं
कपोलं कण्डूयमानेन घर्षयता
। ‘कण्ड्वादीभ्यो यक् ‘ इति
यक् । ततः शानच्। वन्यद्विपेनास्य
देवदारोस्त्वगुनमथिता ।
अथाद्रेस्तनया गौरी
असुरास्त्रैरालीढं क्षतम्
। सेनां नयतीति सेनानीः स्कन्दः
। ‘पार्वतीनन्दनः स्कन्दः
सेनानीः ‘ इत्यमरः । ‘सत्सूद्विष-‘
इत्यादिना
क्किप् । तमिव । एनं देवदारुं
शुशोच ।।
तदाप्रभृत्येव
वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ
।
व्यापारितः
शूलभृता विधाय सिंहत्वमङ्कागतसत्तवृत्ति
।। ३८ ।।
तदा तत्कालः
प्रभ्रतिरादिर्यस्मिन्कर्मणि
तत्तथा तदाप्रभृत्येव
वनद्विपानां त्रासार्थ भयार्थ
शूलभूता शिवेन । अङ्कं समीपमागताः
प्राप्ताः सत्त्वाः प्राणिनो
वृत्तिर्यस्मिस्तत् ‘अङ्कः
समीप उत्सङ्गे चिह्ने
स्थानापराधयोः ‘ इति केशवः
। सिंहत्वं विधाय । अस्मिन्नद्रिकुक्षौ
गुहायामहं व्यापारितो नियु-
क्तः ।।
तिस्यालमेषा
क्षुधितस्य तृप्त्यै प्रदिष्टकाला
परमेश्वरेण ।
उपस्थिता
शोणितपारणा मे सुरद्विषश्चान्द्रमसी
सुधेव ।। ३९ ।।
पपमेश्वरेण
प्रदिष्टो दिर्दिष्टः कालो
भोजनवेला यस्याः सोपस्थिता
प्राप्तैषा गोरूपा शोणितपारणा
रुधिरस्य व्रतान्तभोजनम् ।
सुरद्विषो राहोः चन्द्रमस
इयं चान्द्रमसी सुधेव ।
क्षुधितस्य बुभुक्षितस्य
तस्याङ्कागतसत्तवृत्तेर्मे
मम सिंहस्य तृप्त्या अलं
पर्याप्ता । ‘नमःस्वस्ति-
‘ इत्यादिना
चतुर्थी ।।
स त्वं
निवर्तस्य विहाय लज्जां
गुरोर्भवान्दर्शितशिष्यभक्तिः
।
शस्त्रेण
रक्ष्यं यदशक्यरक्षं न तद्यशः
शस्त्रभृतां क्षिणोति ।। ४०
।।
स एवमुपायशून्यस्त्वं
लज्जां विहाय निवर्तस्व ।
भवांस्त्वं गुरोर्दर्शिता
प्रकाशिता शिष्यस्य कर्तव्या
भक्तिर्येन स तथोक्तोऽस्ति
। ननु गुरुधनं विनाश्य कथं
तत्समीपं गच्छेयमत आह-शस्त्रेणेति
। यद्रक्ष्यं धनं शस्त्रेणायुधेन
। ‘शस्त्रमायुधलोहयोः ‘
त्यमिरः । अशक्या रक्षा यस्य
तदशक्यरक्षम् । रक्षितुमशक्यमित्यर्थः
। तद्रक्ष्यं नष्टमपि शस्त्रभृतां
यशो न क्षिणोति न हिनस्ति ।
अशक्यार्थेष्व प्रति-
विधानं
न दोषायेति भावः ।।
इति प्रगल्भं
पुरुषाधाराज मृगाधिराजस्य
वचो निशम्य ।
प्रत्याहतास्त्रो
गिरिसप्रभावादात्मन्यवज्ञां
शिथिलीचकार ।। ४१ ।।
पुरुषाणामधिराडो
नृप इति प्रगल्भं मृगाधिराजस्य
वचो निशम्य श्रुत्वा
गिरिशस्येश्वरस्य
प्रभावात्प्रत्याहतास्त्रः
कुण्ठितास्रः सन्नात्मनि
विषयेऽवज्ञामपमानं शिथिलीचकार
। तत्याजेत्यर्थः । अवज्ञातोऽहमिति
निर्वेदं न प्रापेत्यर्थः
। समानेषु हि क्षत्रियाणामभिमानो
न सर्वेश्वरं प्रतीति भावः
।।
प्रत्यव्रवीच्चैनमिषुप्रयोगे
तत्पूर्वभङ्गे वितथप्रयत्नः
।
जडीकृतरुयम्बकवीक्षणेन
वज्रं मुमुक्षन्निव वज्रपाणिः
।। ४२ ।।
स
एव पूर्वः प्रथमो भङ्गः
प्रतिबन्धो यस्य तस्मिस्तत्पूर्वबङ्गं
इषुप्रयोगे वितथप्रयत्नो
विफलप्रयासः । अत एव वज्रं
कुलिशं मुमुक्षन्मोक्तुमिच्छन्
। अम्बकं लोचनम् । ‘द्यग्द्यष्टिनेत्रलोचन-
चक्षुर्नयनाम्बकेक्षणाक्षीमणि‘
इति हलायुघः । त्रीण्यम्बकानि
यस्य स त्र्यम्बको हरः । तस्य
वीक्षणेन जडीकृतो निष्पन्दीकृतः
। वज्रं पाणौ यस्य स वज्रपाणिरिन्द्रः
। ‘प्रहरणार्थेभ्यः परे
निष्ठासप्तम्यौ भवत इति
वक्तव्यम् ‘ इति पाणेः
सप्तम्यन्तस्योत्तरनिपातः
। स इव स्थितो नृप एनं सिहं
प्रत्यब्रवीच्च । ‘बाहुं
सवज्रं शक्रस्य कुद्धस्यास्तम्भयत्प्रभुः
‘ इति महाभारते ।।
संरुद्धचेष्ट
मृगेन्द्र कामं हास्यं
वचस्तद्यदहं विवक्षुः ।
अन्तर्गतं
प्राणभृतां हि वेद सर्वं
भवान्भावमतोऽमिधास्ये ।।
४३ ।।
हे
मृगेन्द्र संरुद्धचेष्टस्य
प्रातिबद्धव्यापारस्य मम
तद्वचो वाक्यं कामं हास्यं
परिहसनीयम् । यद्वचः ‘स त्वं
मदीयेन ‘ (२।४५)
इत्यादिकमहं
विवक्षुर्वक्तुमिच्छुरस्मि
। तर्हि तूर्ष्णी
स्थीयतामित्याश-ङ्क्येश्वरर्किकरत्वात्सर्वज्ञं
त्वां प्रति न हास्यमित्याह-अन्तरिति
। हि यतो भवान्प्राणभृतामन्तर्गतं
हृद्रतं वाग्वृत्त्या
बहिरप्रकाशितमेव सर्वं भावं
वेद वेत्ति । ‘विदो लटो वा ‘
इति णलादेशः । अतोऽहमभि-
धास्ये
वक्ष्यामि । वच इति प्रकृतं
कर्म संबध्यते । अन्ये
त्वीदृग्वचनमाकर्ण्यासंभावेतार्थमेतदित्युपहस-
न्ति
। अतस्तु मौनमेव भूषणम् । त्वं
तु वाङ्मनसयोरेकविध एवायमिध
एवायमिव जानासि । अतोऽहं
विवक्षुरित्यर्थः ।।
मान्यः स
मे स्थावरजंगमानां
सर्गस्थितिप्रत्यवहारहेतुः
।
गुरोरपीदं
धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम्
।। ४४ ।।
प्रत्यवहारः
प्रलयः । स्थावराणां तरुशैलादीनां
जंगमानां मनुष्यादीनां
सर्गस्थिति प्रत्यवहा-रेषु
। हेतुः स ईश्वरो मे मम मान्यः
पूज्यः । अलङ्घ्यशासन इत्यर्थः
। शासनं च ‘सिंहत्वमह्कागत-
सत्त्ववृत्ति‘
(२।३८)
इत्युक्तरूपम्
। तर्हि विसृज्य गम्यताम् ।
नेत्याह-गुरोरपीति
। पुरस्तादग्रे
नश्यदिदमाहिताग्रेर्गुरोर्धनमपि
गोरूपमनुपेक्षणीयम् ।
आहिताग्नेरिति षिशेषणेनानुपेक्षाकारणं
हविःसाधन-त्वं
सूचयति ।।
स त्वं
मंदीयेन शरीरवृर्त्ति देहेन
निर्षर्तयितुं प्रसीद ।
दिनावसानोत्सकवालवत्सा
विसृज्यतां धेनुरियं महर्षेः
।। ४५ ।।
सोऽङ्कागतसत्त्ववृत्तिस्त्वं
मदीयेन देहेन शरीरस्य
वृर्त्तिजीवनं निर्वर्तयितुं
संपादयितुं प्रसीद । दिनावसान
उत्सुको माता समागमिष्यतीत्युत्कण्ठितो
यस्याः सा महर्षेरियं
धेनुर्विसृज्यताम् ।।
अथान्धकारं
गिरिगह्वराणां दंष्टामयूखैः
शकलानि कुर्वन् ।
भूयः स
भूतेश्वरपार्श्ववर्ती
किंचिद्विहस्यार्थपर्ति
बभाषेः ।। ४६ ।।
अथ भूतेश्वरस्य
पार्श्ववर्त्यनुचरः स सिंहो
गिरेर्गह्वराणां गुगानाम्
। ‘देवखातबिले गुहा । गह्वरम्
‘ इत्यमिः । अन्धकारं ध्वान्तं
दंष्ट्रामयूखैः शकलानि खण्डानि
कुर्वन् । निरस्यन्नित्यर्थः
। किंचिद्विहस्यार्थपतिं
नृपं भूयो बभाषे । हासकारणम्
‘अल्पस्य हेतोर्बहु हातुमिच्छन्
‘ (२।४७)
इति
वक्ष्यमाणं द्रष्टव्यम् ।।
एकातपत्रं
जगतः प्रभुत्वं नवं वयः
कान्तमिदं वपुश्च ।
अल्पस्य
हेतोर्बहु हातुमिच्छन्विचारमूढः
प्रतिभासि मे त्वम् ।। ४७ ।।
एकातपत्रमेकच्छत्रं
जगतः प्रभुत्वं स्वामित्वम्
। नवं वयो योवनम् । इदं कान्तं
रम्यं वपुश्च । इत्येवं बहु
। अल्पस्य हेतोरल्पेन कारणेन
। अल्पफलायेत्यर्थः । ‘षष्टी
हेतुप्रयोगे ‘ इति षष्ठी ।
हातुं त्यक्तुमिच्छंस्त्वं
विचारे कार्याकार्यविमर्शे
मूढो मूर्खो मे मम प्रतिभासि
।।
भूतानुकम्पा
तव चेदियं गौरेका भवेत्स्वस्तिमती
त्वदन्ते ।
जीवन्पुनः
शश्वदुपप्लवेभ्यः प्रजाः
प्रजानाथ पितेव पासि ।। ४८
।।
तव भूतेष्वनुकम्पा
कृपा चेत् । दयानुकम्या इत्यमरः
। कृपैव वर्तते चेदित्यर्थः
। तर्हि त्वदन्ते तव नाशे
सतीयमेका गौः । स्वस्ति
क्षेममस्या अस्तीति स्वस्तिमती
भवेत् । जीवेदित्यर्थः ।
‘स्वस्त्या-शीःक्षेमपुण्यादौ‘
इत्यमरः । हे प्रजानाथ जीवन्पुनः
पितेव प्रजा उपप्लवेभ्यो
विघ्नेभ्यः शाश्वत्सदा ।
‘पुनः सहार्थयोः शश्वत्‘
इत्यमरः । पासि रक्षति ।
स्वप्राणव्ययेनैकधेनुरक्षणाद्वरं
जीवितेनैव शश्वदखि-लजगन्त्राणामित्यर्थः
।।
न धर्मलोपादियं
प्रवृत्तिः किं तु गुरुभयादित्यत
आह-
अथैकधेनोरपराधचण्डाद्गुरोः
कृशानुप्रतिमाद्विभेषि ।
शक्योऽस्य
मन्युर्भवता विनेतुं गाः
कोटिशः स्पर्शयता घटोध्नीः
।।४९ ।।
अथेति
पक्षान्तरे । अथवा । एकैव
धेनुर्यस्य तस्मात् । अयं
कोपकारणोपन्यास इति ज्ञेयम्
। अत एवापराधे गवोपेक्षालक्षणे
सति चण्डादतिकोपनात् ।
‘चण्डत्वत्यन्तकोपनः‘ इत्यमरः
। अतएव कृशानुः प्रतिमोपमा
यस्य तस्मादग्निकल्पाद्गुरोर्बिभेषि
। इति काकुः । ‘भीत्रार्थानां
भयहेतुः‘ इत्य-
पादानात्पञ्चमी
। अल्पवित्तस्य धनहानिरतिदु-सहेति
भावः । अस्य गुरोर्मन्युः
क्रोधः । ‘मन्युर्दैन्ये
क्रतौ क्रुधि ‘ इत्यमरः । घटा
इवोधांसियासां ता घटोध्नीः
। ‘ऊधसोऽनङ् इत्यनङादेशः ।
‘बहुव्रीहेरूधसो ङीष् । कोटिशो
गाः स्पर्शयता प्रतिपादयता
। विश्राणनं वतरणं स्पर्शनं
प्रतिपादनम् ‘ इत्यमरः । भवता
विनेतुमपनतुं शक्यः ।।
तद्रक्ष
क्याणपरम्पराणां
भोक्तारमूर्जस्वलमात्मदेहम्
।
महीतलस्पर्शनमत्रिभिन्नमृद्धं
हि राज्यं पदमैन्द्रमाहुः
।। ५० ।।
तत्तस्मात्कारणात्
कल्याणपरम्पराणां भोक्तारम्
। कर्मणि षष्ठी । ऊर्जो बलमस्या
स्तीत्यूर्ज-
स्वलम्
। ‘ज्योत्स्नातमिस्रा-‘इत्यादिना
वलच्प्रत्ययान्तो निपातः ।
आत्मदेहं रक्ष । ननु गामुपेक्ष्या-
त्मदेहरक्षणे
स्वर्गहानिः स्यात् ।
नेत्याह-महीतलेति
। ॠद्धं समृद्धं राज्यं
महीतलस्पर्शनमात्रेण भूतल-
संबन्दमात्रेण
भिन्नमैन्द्रमिन्द्रसंवन्धि
पदं स्थानमाहुः । खर्गान्न
भिद्यत इत्यर्थः ।।
एतावदुक्त्वा
विरते मृगेन्द्रे प्रतिस्वनेनास्य
गुहागतेन ।
शिलोच्चयोऽपि
क्षितिपालमुञ्चैः प्रीत्या
तमेवार्थमभाषतेव ।। ५१ ।।
मृगेन्द्र
एतावदुक्ता विरते सति गुहागतेनास्य
सिंहस्य प्रतिस्वनेन शिलोच्चयः
शिलोच्चयः शैलोऽपि प्रीत्या
तमेवार्थं क्षितिपालमुच्चैरभाषतेव
। इत्युत्प्रेक्षा । भाषिरयं
ब्रुविसमानार्थत्वाद्विकर्मकः
। ब्रुविस्तु द्विकर्मकेषु
पठितः ।
तदुक्तम्-‘दुहियाचिरुधिप्रच्छिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ
। ब्रुविशा-सिगुणेन
च यत्सचते तदकीर्तितमाचरितं
कविना ।।‘ इति ।।
निशम्य
देवानुचरस्य वाचं मनुष्यदेवः
पुनरप्युवाच ।
धेन्वा
तदध्यासितकातराक्ष्यमाणः
सुतरां दयालुः ।। ५२ ।।
देवानुचरस्येश्वरर्किकरस्य
सिंहस्य वाचां निशम्य मनुष्यदेवो
राजा पुनरप्युवाच । किंभूतः
सन् । तेन सिंहेन यदध्यासितं
व्याक्रमणम् । नपुंसके भावे
क्तः । तेन कातरे आक्षिणी
यस्यास्तया । ‘बहुव्रीहौ
सक्थ्यक्ष्णोः स्वाङ्गात्षच
‘ इति षच् । ‘षिद्धौरादिभ्यश्च‘
इति ङीष् । किं वा वक्ष्यतीति
भीत्यैवं स्थितयेत्यर्थः ।
धेन्वा निरीक्ष्यमाणः अत एव
सुतरां दयालुः सन् । सुतरामित्यत्र
‘द्विवचन-
विभज्य-‘
इत्यादिना
सुशब्दात्तरप् । ‘किमेत्तिङ्व्यय-‘
इत्यादिनाम्प्रत्ययः
। ‘तद्धितश्चासर्वविभक्तिः‘
इत्यव्ययसंज्ञा ।।
किमुवाचेत्याह-
क्षतात्किल
त्रायत इत्युदग्रः क्षत्रस्य
शब्दो भुवनेषु रूढः ।
राज्येन
किं तद्विपरीतवृत्तेः
प्राणैरुपक्रोशमलीमसैर्वा
।। ५३ ।।
‘क्षणु हिंसायाम्
‘ इति धातोः संपदादत्वात्किप्
। ‘गमादीनाम् ‘ इतिवक्तव्यादनुनासिकलेपे
तुगागमे च क्षदिति रूपं सिद्धम्
। क्षतो नाशात्त्रायत इति
क्षत्रः । सुपीति योगविभागात्कः
। तामेतां व्युत्पत्ति
कविरर्थतोऽनुक्रामति-क्षतादित्यादिना
। उदग्र उन्नतः क्षत्रस्य
क्षत्रवर्णस्य शब्दो वाचकः
क्षत्रशब्द इत्यर्थः ।
क्षतात्त्रायत इति व्युत्पत्त्या
भुवनेषु रूढःकिल प्रसिद्धः
खलु । नाश्वकर्ण दिवत्के-
वलरूढः
किंतु पङ्कजादिवद्योगरूढ
इत्यर्थः । ततः किमित्यत
आह-तस्य
क्षत्रशब्दस्य विपरीत-
वृत्तेर्विरुद्धव्यापारस्य
क्षतस्त्रणमकुर्वतः पुंसो
राज्येन किम् । उपक्रोशमलीमसैर्नन्दामलिनैः
। ‘उपक्रोशो जुगुप्सा च
कुत्सानिन्दा च गर्हणे‘
इत्यमरः । ‘ज्योत्स्नातभिस्रा-‘इत्यादिना
मलीमसशब्दो निपातितः। ‘ मलीमसं
तु मलिनं कच्चरं मलदूषितम्
‘ इत्यमरः । तैः प्रणैर्वा
किम् । निन्दितस्य सर्वं
व्यर्थमित्यर्थः। ‘एकातपत्रम्‘
(२।४७)
इत्यादिना
श्लोकद्वयेनोक्तं प्रत्युक्तमिति
वेदितव्यम् ।।
‘अथैकधेनोः‘
(२।४९)
इत्यत्रोत्तरमाह-
कथं न
शक्योऽनुनयो महर्षेविश्राणनाच्चान्यपयस्विनीनाम्
।
इमामनूनां
सुरभेरवेहि रुद्रोजसा तु
प्रहृतं त्वयास्याम् ।। ५४
।।
अनुनयः क्रोधापनयः
। चकारो वाकारार्थः । महर्षेरनुनयो
वान्यासां पयस्विनीनां
दोग्ध्रीणां गवां वश्राणनाद्दानात्
। ‘त्यागो विहीपितं
दानमुत्सर्जनविसर्जने ।
वश्राणनं वितरणम् ‘ इत्यमरः
। कथं नु शक्य इत्यर्थः । अत्र
हेतुमाह-इमां
गां सुरभेः कामधेनोः । ‘पञ्चमी
विबक्ते‘ इति पञ्चमी । अनूनाम-
न्यूनामवेहि
आनीहि । तर्हि कथमस्याः परिभवो
भूयादित्याह-रुद्रौजसेति
। अस्यां गवि त्वया कर्त्रा
प्रहृतं तु प्रहारस्तु ।
नपुंसके भावे क्तः ।
रुद्रौजसेश्वरसामर्थ्येन
न तु स्वयमित्यर्थः । ‘सप्तम्यधिकरणे
च‘ इति सप्तमी ।।
तर्हि किं
चिकीर्षितमित्यात्राह-
सेयं
स्वदेहार्पणनिष्कयेण न्याय्या
मया मोचयितुं भवतः ।
न पारणा
स्याद्विहता तवैवं भवेदलुप्तश्च
मुनेः क्रियार्थः ।। ५५ ।।
सेयं गौर्मया
नष्कीयते प्रत्याह्रियतेऽनेन
परिगृहीतमिति निष्कयः
प्रतिशीर्षकम् । ‘एरच‘
इत्यच्प्रत्ययः । स्वदेहार्पणमेव
निष्कयस्तेन बवत्तस्त्वत्तः
। पञ्चम्यास्तसिल् । मचयितुं
न्याय्या न्यायादनपेता ।
युक्तेत्यर्थः । ‘धर्मपथ्यर्थ-‘
इत्यादिना
यत्प्रत्ययः । एवं सति तव
पारणा भोजनं विहता न स्यात्
। मुनेः क्रिया होमादिः स
एवार्थः प्रयोजनम् । स चालुप्तो
भवेत् । स्वप्राणव्ययेनापि
स्वामिगुरुधनं संरक्ष्यमिति
भावः ।।
अत्र भवानेव
प्रमाणमित्याह-
भवानपीदं
परवानवैति महान्हि यत्नस्तव
देवदारौ ।
स्थातुं
नियोक्तुर्नहि शक्यमग्रे
विनाश्य रक्ष्यं स्ययमक्षतेन
।। ५६ ।।
परवान्स्वामिपरतन्त्रो
भवानपि । ‘परतन्त्रः पराधीनः
परवान्नाथवानपि‘ इत्यमरः ।
इदं वक्ष्यमाणमवैति । भवतानुभूयत
एवेत्यर्थः । ‘शेषे प्रथमः‘
इति प्रथमपुरुषः । किमित्यत
आह-हि
यस्माद्धेतोः । ‘हि हेताववधारणे‘
इत्यमरः । तव देवदारौ विषये
महान्यत्नः । महता यत्नेन
रक्ष्यत इत्यर्थः । इदंशब्दोक्तमर्थं
दर्शयति-स्थातुमिति
। रक्ष्यं वस्तु विनाश्य
विनाशं गमयित्वा स्ययमक्षते-
नाव्रणेन
। नियुक्तेनेति शेषः । नियोक्तुः
स्वामिनोऽग्रे
स्थातुं शक्यं नहि ।।
सर्वथा
चैतदप्रतिहार्यमित्याह-
किमप्यहिंस्यस्तव
चेन्मतोऽहं
यशःशरीरे भव मे दयालुः ।
एकान्तविध्वंसिषु
मद्विधानां पिण्डेष्वनास्था
खलु भौतिकेषु ।। ५७ ।।
किमपि किं वाहं
तवार्हिस्योऽवध्यो
मतश्चेत्तर्हि मे यश शरीरं
तस्मिन्दयालुः कारुणिको भव
। ‘स्याद्दयालुः कारुणिकः‘
इत्यमरः । ननु मुखमुपेक्ष्यामुख्यशरीरे
कोऽभिनिवेशः ।
अत आह-एकान्तेति।
मद्विधानां मादृशानां
विवेकिनामेकान्तविध्वंसिष्ववश्यविनाशिषु
भौतिकेषु पृथिव्यादिभूतविगारेषु
पिण्डेष्वनास्था खल्वनपेक्षैव
। ‘आस्था त्वालम्बनास्थानयत्नापेक्षासु‘
इति विश्वः ।।
सौहार्दादहमनुसरणीयोऽस्मीत्याह-
संबन्धमाभाषणपूर्वमाहुर्वृत्तः
स नौ संगतयोर्वनान्ते ।
तद्भतनाथानुग
नार्हसि त्वं संबन्धिनो मे
प्रणयं विहन्तुम् ।। ५८ ।।
typo खं यशः शुश्राव शुतवान् --> स्वं यशः शुश्राव शुतवान् (12th)
ReplyDeleteAnvaya and other details are available here - https://nivedita2015.wordpress.com/video-kalidasas-raghuvamsam-second-sarga-vidhya-ramesh/